अद्यतनसङ्गणकयुगे वाल्मीकिरामायणस्य २४,००० श्लोकाः सामान्यजनस्य कृते अन्तर्जालद्वारा उपलभ्यन्ते । सम्प्रति ग्रन्थस्थाः शब्दाः अन्वेष्टुं शक्यन्ते । एषा परियोजना रामायणस्थितान् विविधान् विषयान् अन्वेष्टुं साहाय्यम् आचरति । रामायणे व्यक्तीनां, नगराणां, नदीनां, मानवसम्बन्धानां विषये किं किं उल्लिखितम् अस्ति इत्यादयः विषयाः अन्वेष्टुं शक्याः भविष्यन्ति ।
जनाः, विशेषतः विभिन्नक्षेत्रेषु शोधं कुर्वन्तः किं रामायणे तेषां उल्लेखः अस्ति वा इति ज्ञातुम् इच्छन्ति । यथा वाल्मीकिः परिसरस्य, मानवमौल्यानां च विषये किं वदति, अथवा, रामस्य विषये कैकेयी किं चिन्तयति स्म, सीता-रामयोः सम्बन्धः कीदृशः आसीत् .... इत्यादि । सम्प्रति एतादृशप्रश्नानां उत्तराणि अन्वेष्टुं कोऽपि उपायः नास्ति । रामायणं, महाभारतम् इत्यादयः भारतीयज्ञानव्यवस्थायाः स्रोतांसि सन्ति । एषा परियोजना केवलं आरम्भः एव। यदि सम्पूर्णं संस्कृतसाहित्यं रामायणवत् विषयाङ्कितं भवति तर्हि तस्य मूल्यं अविश्वसनीय-परिमाणेन बहुगुणं भवति । एकतः अस्माकं ग्रन्थेषु महत् निधिः अस्ति । अन्यतः जनानां भारतीयज्ञानव्यवस्थायां रुचिः वर्तते । सम्प्रति सङ्गणकस्य साहाय्येन वयं केवलं शब्दान् अन्वेष्टुं शक्नुमः, विषयान् न । एषा परियोजना रामायणे भिन्नविषयाणां उल्लेखः कुत्र कथमस्ति इति ज्ञातुं साहाय्यं करोति ।
ये बहुवर्षेभ्यः सम्पूर्णं रामायणं पठितवन्तः, अध्ययनद्वारा प्राप्तं धारणाय शक्ताः, ते यथा झटिति तत्र तत्र स्थितान् विषयान् चित्वा वक्तुं पारयन्ति, तथा नूतनाः अपि अस्य साहाय्येन अत्यपूर्वान् विषयान् अल्पे काले सङ्गृहीतुं शक्नुवन्ति ।
वर्तमानजनाः सूचना(Information)चालिताः सन्ति । दिने दिने बहवः विषयाः भवन्ति, बहवः वादविवादाः च भवन्ति । अधिकांशतः सूचनायाः (Information) अभावः वादविवादान् कुत्रापि नयति, वादविवादाः निष्प्रयोजनाः भवन्ति । यदाकदापि यःकोऽपि रामायणादिविषये यत्किमपि वदति चेत् वयं वास्तवतया ग्रन्थे किमुक्तमिति ज्ञातुं न शक्नुमः । अस्य साहाय्येन तादृश्यः समस्याः प्रायः दूरीभवन्ति ।
परम्परागतरूपेण रामायणं पठ्यते, उपदिश्यते, प्रचार्यते च। मठादिषु, पारम्परिकसंस्थासु, मन्दिरेषु च रामनवमी इत्यादिषु उत्सवेषु विद्वांसः विविधविषयेषु व्याख्यानानि दातुं प्रार्थ्यन्ते । यथा यदि कश्चित् विद्वान् 'रामस्य गुणाः' इति विषये व्याख्यानं दातुं प्रार्थ्यते तर्हि तस्य अध्ययनस्य अनुभवस्य च आधारेण सः विविधभागेभ्यः बिन्दून् संगृह्णाति । केचन प्रसिद्धाः अंशाः सन्ति यत्र रामस्य गुणानां महती सूची उल्लिखिता अस्ति । यथा बालकाण्डस्य अयोध्याकाण्स्य च आरम्भे रामगुणाः वर्णिताः । सामान्यतया जनाः एतावता प्रसन्नाः भवन्ति ।
परन्तु यदि वयं सम्यक् रामायणं पश्यामः तर्हि कथायाः विभिन्नेषु चरणेषु रामस्य गुणानां विषये अतीव सूक्ष्माः रोचकाः विषयाः उपलभ्यन्ते । यदि ते एकत्र स्थापिताः भवन्ति तर्हि व्याख्यानस्य व्याप्तिः प्रभावः च नूतनं उच्चस्थानं प्राप्नोति । इदं तादृशं साहाय्यं करोति । यथा, रामगुणविषये नारदः, वाल्मीकिः, अयोध्यायाः सामान्यजनाः, रामस्य भ्रातरः, मातरः, पिता, मित्राणि, प्रथमवारं रामं मिलितवन्तः जनाः, शत्रवः इत्यादयः किमुक्तवन्तः इति इदं दर्शयति ।
अस्मिन् विषये वयं एकस्य युवकस्य उत्साहिनः सॉफ्टवेयर-इञ्जिनीयरस्य हृषिकेश-वि. महोदयस्य साह्यं स्वीकृतवन्तः । तेन विषयान्वेषणाय अपेक्षितं साफ्ट्वेर् रचितवान् । सः तन्त्राशः ५००० पङ्क्तीः यावत् चलति । वयं गीताप्रेस, गोरखपुरतः मूलटङ्कितं सम्पूर्णं वाल्मीकिरामायणम् एतदर्थं यदा प्रार्थितवन्तः तदा ते बहुसौहार्देन दत्तवन्तः ।
<कथानुक्रमणी; कथा; श्रीरामसद्गुणानां वर्णनं श्रीरामं यौवराज्ये स्थापयितुं दशरथस्य विचारस्तदर्थं मन्त्रणां कर्तुं विभिन्ननरेशानां पौराणां जानपदानां च राज्ञा स्वसंसदि समाह्वानम्>
2-1-1 a: गच्छता मातुलकुलं भरतेन तदानघः ।
2-1-1 c: शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥ १ ॥
2-1-2 a: स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः ।
2-1-2 c: मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥ २ ॥
2-1-3 a: तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।
2-1-3 c: भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम् ॥ ३ ॥
2-1-4 a: राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।
2-1-4 c: उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥ ४ ॥
<उपमा;दशरथस्य पुत्राणां सम्बन्धः>
2-1-5 a: सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः ।
2-1-5 c: स्वशरीराद् विनिर्वृत्ताश्चत्वार इव बाहवः ॥ ५ ॥
उपमा;दशरथस्य पुत्राणां सम्बन्धः>
<रामगुणाः; वाल्मीकिकथिताः रामस्य गुणाः>
2-1-6 a: तेषामपि महातेजा रामो रतिकरः पितुः ।
2-1-6 c: स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥ ६ ॥
2-1-7 a: स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः ।
2-1-7 c: अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥ ७ ॥ ..
2-1-32 a: सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः ।
2-1-32 c: बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये चापि शचीपतेः ॥ ३२ ॥
2-1-33 a: तथा सर्वप्रजाकान्तैः प्रीतिसञ्जननैः पितुः ।
2-1-33 c: गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ॥ ३३ ॥
<गुणः; रामगुणः; वाल्मीकेः उद्गारः>
2-1-34 a: तमेवंवृत्तसम्पन्नमप्रधृष्यपराक्रमम् ।
2-1-34 c: लोकनाथोपमं नाथमकामयत मेदिनी ॥ ३४ ॥
रामगुणाः; वाल्मीकिकथिताः रामस्य गुणाः>
गुणः; रामगुणः; वाल्मीकेः उद्गारः>
2-1-35 a: एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ।
2-1-35 c: दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः ॥ ३५ ॥
2-1-36 a: अथ राज्ञो बभूवैव वृद्धस्य चिरजीविनः ।
2-1-36 c: प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥ ३६ ॥
2-1-37 a: एषा ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते ।
2-1-37 c: कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ ३७ ॥
<रामगुणाः; दशरथचिन्तिताः रामगुणाः>
2-1-38 a: वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पकः ।
2-1-38 c: मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥ ३८ ॥
2-1-39 a: यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ।
2-1-39 c: महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ॥ ३९ ॥
2-1-40 a: महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ।
2-1-40 c: अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ॥ ४० ॥
रामगुणाः; दशरथचिन्तिताः रामगुणाः>
<रामगुणाः; वाल्मीकिना सङ्गृहीताः रामस्य गुणाः>
<रामगुणाः;यौवराज्यस्य कारणम्>
2-1-41 a: इत्येवं विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः ।
2-1-41 c: शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः ॥ ४१ ॥
2-1-42 a: तं समीक्ष्य तदा राजा युक्तं समुदितैर्गुणैः ।
2-1-42 c: निश्चित्य सचिवैः सार्धं यौवराज्यममन्यत ॥ ४२ ॥
रामगुणाः; वाल्मीकिना सङ्गृहीताः रामस्य गुणाः>
<माहिति; रामपट्टाभिषेकाय दशरथकृतत्वरायाः कारणम्>
रामगुणाः;यौवराज्यस्य कारणम्>
2-1-43 a: दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ।
2-1-43 c: सञ्चचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ॥ ४३ ॥
2-1-44 a: पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ।
2-1-44 c: लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः ॥ ४४ ॥
2-1-45 a: आत्मनश्च प्रजानां च ज्येयसे च प्रियेण च ।
2-1-45 c: प्राप्ते काले स धर्मात्मा भक्त्या त्वरितवान् नृपः ॥ ४५ ॥
माहिति; रामपट्टाभिषेकाय दशरथकृतत्वरायाः कारणम्>
<रामपट्टाभिषेकः; केकयराजः तथा जनकः नाहूतः । तस्य कारणम्>
<वर्णनम्; दशरथेन आहूताः जनाः>
2-1-46 a: नानानगरवास्तव्यान् पृथग्जानपदानपि ।
2-1-46 c: समानिनाय मेदिन्यां प्रधानान् पृथिवीपतिः ॥ ४ ६ ॥
2-1-47 a: तान् वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् ।
2-1-47 c: ददर्शालङ्कृतो राजा प्रजापतिरिव प्रजाः ॥ ४७ ॥
2-1-48 a: न तु केकयराजानं जनकं वा नराधिपः ।
2-1-48 c: त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ॥ ४८ ॥
वर्णनम्; दशरथेन आहूताः जनाः>
रामपट्टाभिषेकः; केकयराजः तथा जनकः नाहूतः । तस्य कारणम्>
2-1-49 a: अथोपविष्टे नृपतौ तस्मिन् परपुरार्दने ।
2-1-49 c: ततः प्रविविशुः शेषा राजानो लोकसम्मताः ॥ ४९ ॥
2-1-50 a: अथ राजवितीर्णेषु विविधेष्वासनेषु च ।
2-1-50 c: राजानमेवाभिमुखा निषेदुर्नियता नृपाः ॥ ५० ॥
2-1-51 a: स लब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः ।
2-1-51 c: उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः ॥ ५१ ॥
कथानुक्रमणी; कथा; श्रीरामसद्गुणानां वर्णनं श्रीरामं यौवराज्ये स्थापयितुं दशरथस्य विचारस्तदर्थं मन्त्रणां कर्तुं विभिन्ननरेशानां पौराणां जानपदानां च राज्ञा स्वसंसदि समाह्वानम्>
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्येऽयोध्याकाण्डे प्रथमः सर्गः ॥ १ ॥